|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.11. अध्यायः 011
Mahabharata - Sabha Parva - Chapter Topics
ब्रह्मसभावर्णनम्॥1॥
Mahabharata - Sabha Parva - Chapter Text
नारद उवाच॥
पितामहसभां तात कथ्यमानां निबोध मे।
शक्यते या न निर्देष्टुमेवंरूपेति भारत॥ 2-11-1(11713)
पुरा देवयुगे राजन्नादित्यो भगवान्दिवः।
आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः॥ 2-11-2(11714)
चरन्मानुषरूपेण सभां दृष्ट्वा स्वयम्भुवः।
स तामकथयन्मह्यं दृष्ट्वा तत्त्वेन पाण्डव॥ 2-11-3(11715)
अप्रमेयां सभां दिव्यां मानसीं भरतर्षभ।
अनिर्देश्यां प्रभावेण सर्वभूतमनोरमाम्॥ 2-11-4(11716)
श्रुत्वा गुणानहं तस्याः सभायाः पाण्डवर्षभ।
दर्शनेप्सुस्तथा राजन्नादित्यमिदमब्रुवम्। 2-11-5(11717)
भगवन्द्रष्टुमिच्छामि पितामहसभां शुभाम्।
येन वा तपसा शक्या कर्मणा वाऽपि गोपते॥ 2-11-6(11718)
औषधैर्या तथा युक्तैरुत्तमा पापनाशिनी।
तन्ममाचक्ष्व भगवन्पश्येयं तां सभां यथा॥ 2-11-7(11719)
स तन्मम वचः श्रुत्वा सहस्रांशुर्दिवाकरः।
प्रोवाच भारतश्रेष्ठ व्रतं वर्षसहस्रकम्॥ 2-11-8(11720)
ब्रह्मव्रतमुपास्स्व त्वं प्रयतेनान्तरात्मना।
ततोऽहं हिमवत्पृष्ठे समारब्दो महाव्रतम्॥ 2-11-9(11721)
ततः स भगवान्सूर्यो मामुपादाय वीर्यवान्।
आगच्छत्तां सभां ब्राह्मीं विपाप्मा विगतक्लमः ? 2-11-10(11722)
एवंरूपेति सा शक्या न निर्देष्टुं नराधिप।
क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वपुस्तथा॥ 2-11-11(11723)
न वेद परिमाणं वा संस्थानं चापि भारत।
न च रूपं मया तादृक् दृष्टपूर्वं कदाचन॥ 2-11-12(11724)
सुसुखा सा सदा राजन्न शीता न च घर्मदा।
न क्षुत्पिपासे न ग्लानिं प्राप्यतां प्राप्तुवन्त्युत ॥ 2-11-13(11725)
नानारूपैरिव कृता मणिभिः सा सुभास्वरैः।
स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा ॥ 2-11-14(11726)
दिव्यैर्नानाविधैर्भावैर्भासद्भिरमितप्रभैः॥ 2-11-15(11727)
अति चन्द्रं च सूर्यं च शिखिनं च स्वयम्प्रभा।
दीप्यते नाकपृष्ठस्था भर्त्सयन्वीव भास्करम्॥ 2-11-16(11728)
तस्यां स भगवानास्ते विदधद्देवमायया।
स्वयमेकोऽनिशं राजन्सर्वलोकपितामहः॥ 2-11-17(11729)
उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम्।
दक्षः प्रचेताः पुलहो मरीचिः कश्यपः प्रभुः॥ 2-11-18(11730)
भृगुरत्रिर्वसिष्ठश्च गौतमोऽथ तथाङ्गिराः।
पुलस्त्यश्च कतुश्चैव प्रह्लादः कर्दमस्तथा। 2-11-19(11731)
अथर्वाङ्गिरसश्चैव वालखिल्या सरीचिपाः।
मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही॥ 2-11-20(11732)
शब्दस्पर्शौ तथा रूपं रसो गन्धश्च भारत।
प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः॥ 2-11-21(11733)
अगस्त्यश्च महातेजा मार्कण्डेयश्च वीर्यवान्।
जमदग्निर्भरद्वाजः संवर्तश्च्यवनस्तथा॥ 2-11-22(11734)
दुर्वासाश्च महाभाग ऋष्णशृङ्गश्च धार्मिकः।
सनत्कुमारो भगवान्योगाचार्यो महातपाः॥ 2-11-23(11735)
असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित्।
ऋषभो जितशत्रुश्च महावीर्यस्तथा मणिः॥ 2-11-24(11736)
आयुर्वेदस्तथाऽष्टाङ्गो देहवांस्तत्र भारत।
चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान्॥ 2-11-25(11737)
वायवः क्रतवश्चैव सङ्कल्पः प्राण एव च।
मूर्तिमन्तो महात्मानो महाव्रतपरायणाः॥ 2-11-26(11738)
एते चान्ये च बहवो ब्रह्माणं समुपस्थिताः।
अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः॥ 2-11-27(11739)
आयान्ति तस्यां सहिता गन्धर्वाप्सरसां गणाः।
विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः॥ 2-11-28(11740)
शुक्रो बृहस्पतिश्चैव बुधोऽङ्कारक एव च।
शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च॥ 2-11-29(11741)
मन्त्रो रथन्तरं चैव हरिमान्वसुमानपि।
आदित्याः साधिराजानो नामद्वन्द्वैरुदाहृताः॥ 2-11-30(11742)
मरुतो विश्वकर्मा च वसवश्चैव भारत।
तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ॥ 2-11-31(11743)
ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव।
अथर्ववेदश्च तथा सर्वशास्त्राणि चैव ह॥ 2-11-32(11744)
इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः।
ग्रहा यज्ञाश्च सोमश्च देवताश्चापि सर्वशः॥ 2-11-33(11745)
सावित्री दुर्गतरणी वाणी सप्तविधा तथा।
मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा॥ 2-11-34(11746)
सामानि स्तुतिशस्त्राणि गाथाश्च विविधास्तथा।
भाष्याणि तर्कयुक्तानि देहवन्ति विशाम्पते॥ 2-11-35(11747)
नाटका विविधाः काव्याः कथाख्यायिकारिकाः ।
तत्रतिष्ठन्ति ते पुण्या ये चान्ये गुरुपूजकाः॥ 2-11-36(11748)
क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च।
अर्धमासाश्च मासाश्च ऋतवः षट् च भारत॥ 2-11-37(11749)
संवत्सराः पञ्ययुगमहोरात्रश्चतुर्विधः।
कालचक्रं च तद्दिव्यं नित्यमक्षयमव्ययम्॥ 2-11-38(11750)
धर्मचक्रं तथा चापि नित्यमास्ते युधिष्ठिर।
अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा॥ 2-11-39(11751)
कालिका सुरभी देवी सरमा चाथ गौतमी॥ 2-11-40(11752)
प्रभा कद्रूश्च वै देव्यौ देवतानां च मातरः।
रुद्राणी श्रीश्च लक्ष्मीश्च भद्रा षष्ठी तथाऽपरा॥ 2-11-41(11753)
पृथिवी गां गता देवी ह्रीः स्वाहा कीर्तिरेव च।
सुरा देवी शची चैव तथा पुष्टिररुन्धती॥ 2-11-42(11754)
संवृत्तिराशा नियतिः सृष्टिर्देवी रतिस्तथा।
एताश्चान्याश्चवै देव्य उपतस्थुः प्रजापतिम्॥ 2-11-43(11755)
आदित्या वसवो रुद्रा मरुतश्चास्विनावपि।
विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः॥ 2-11-44(11756)
पितृणां च गणान्विद्धि सप्तैव पुरुषर्षभ।
मूर्तिमन्तो वै चत्वारस्त्रयश्चापि शरीरिणः॥ 2-11-45(11757)
वैराजश्च महाभागा अग्निष्वात्ताश्च भारत।
गार्हपत्या नाकचराः पितरो लोकविश्रुताः॥ 2-11-46(11758)
सोमपा एकशृङ्गाश्च चतुर्वेदाः कलास्तथा।
एते चतुर्षु वर्णेषु पूज्यन्ते पितरो नृप॥ 2-11-47(11759)
एतैराप्यायितैः पुर्वं सोमश्चाप्याय्यते पुनः।
त एते पितरः सर्वे प्रजापतिमुपस्थिताः॥ 2-11-48(11760)
उपासते च संहृष्टा ब्रह्माणममितौजसम्।
राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा॥ 2-11-49(11761)
नागाः सुपर्णाः पशवः पितामहमुपासते।
स्थावरा जङ्गमाश्चैव महाभूतास्तथाऽपरे॥ 2-11-50(11762)
पुरन्दरश्च देवेन्द्रो वरुणो धनदो यमः।
महादेवः सहोमोऽत्र सदा गच्छति सर्वशः॥ 2-11-51(11763)
महासेनश्च राजेन्द्र सदोपास्ते पितामहम्।
देवो नारायणस्तस्यां तथा देवर्षयश्च ये॥ 2-11-52(11764)
ऋषयो वालखिल्याश्च योनिजायोनिजास्तथा।
यच्च किञ्चित्रिलोकेऽस्मिन्दृश्यते स्थाणु जङ्गमम्।
सर्वं तस्यां मया दृष्टमिति विद्धि नराधिप॥ 2-11-53(11765)
अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम्।
प्रजावतां च पञ्चाशदृषीणामपि पाण्डव॥ 2-11-54(11766)
ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः।
प्रणम्य शिरसा तस्मै सर्वे यान्ति यथागमम्॥ 2-11-55(11767)
अतिथीनागतान्देवान्दैत्यान्नागांस्तथा द्विजान्।
यक्षान्मुपर्णान्कालेयान्गन्धर्वाप्सरसस्तथा॥ 2-11-56(11768)
महाभागानमितधीर्ब्रह्मा लोकपितामहः।
दयावान्सर्वभूतेषु यथार्हं प्रतिपद्यते॥ 2-11-57(11769)
प्रतिगृह्य तु विश्वात्मा स्वयं स्वयम्भूरमितद्युतिः।
सान्त्वमानार्थसम्भोगैर्युनक्ति मनुजाधिप॥ 2-11-58(11770)
तथा तैरुपयातैश्च प्रतियद्भिश्च भारत।
आकुला सा सभातात भवति स्म सुखप्रदा॥ 2-11-59(11771)
सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता।
ब्राहया श्रिया दीप्यमाना शुशुभे विगतक्लमा॥ 2-11-60(11772)
सा सभा तादृशी दृष्टा मया लोकेषु दुर्लभा।
सभेयं राजशार्दूल मनुष्येषु यथा तव॥ 2-11-61(11773)
एता मया दृष्टपूर्वाः सभा देवेषु भारत।
सभेयं मानुषे लोके सर्वश्रेष्ठतमा तव॥ ॥ 2-11-62(11774)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि एकादशोऽध्यायः॥ 11॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-11-2 देवयुगे कृतयुगे॥ 2-11-30 मामद्वन्द्वैरग्नीषोमेन्द्राभ्यादिभिः॥ 2-11-38 संवत्सराः षष्टिः प्रभवादयः। तेच पञ्चपञ्च एकैकं युगम्। चतुर्विधो मानुषोऽ होरात्रः षष्टिघटिकाभिः। पैत्रो मासेन। दैवो वत्सरेण। ब्राह्मः कल्पेनेति। कालचक्रं द्वादशराश्यात्मकम्॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|